सुवृत्तमुक्ताफलजालचित्रकं भवेदखण्डं यदि चन्द्रमण्डलम्।
श्रमाम्बुबिन्दूत्तरशोभा तारकं ततो मुखं तेन तवोपमीयते॥ ३५१॥
अनन्वयोपमा यथा—(काव्याद. २.२५९)
त्वन्मुखं त्वन्मुखमिव त्वददृशौ त्वददृशाविव।
त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि॥ ३५२॥
उपमैवोत्पन्नसादृश्यात् तिरोभूतभेदा रूपकम्। तत् षोढा—
शब्दप्रधानम्, अर्थप्रधानम्, उभयप्रधानं, सावयवं, निरवयवं, सङ्कीर्णं च। तेषु
शब्दप्रधानं चतुर्विधम्— समस्तम्, असमस्तं, समस्तव्यस्तं, रूपकरूपकं च। तत्र समस्तं यथा—(काव्याद. २.२५९)
पाणिपद्मानि भूपानां संकोचयितुमीशते।