त्वत्पादनखचन्द्राणामर्चिषः कुन्दनिर्मलाः॥ ३५३॥
असमस्तं यथा—(काव्याद. २.६७)
अङ्गुल्यः पल्लवान्यासन् कुसुमानि नखार्चिषः।
बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी॥ ३५४॥
स्मितं मुखेन्दौ ज्योत्स्ना ते प्रभाम्बु कुचकुम्भयोः।
दोर्लतापल्लवे पाणौ पुष्पं सखि नखार्चिषः॥ ३५५॥
रूपकरूपकं यथा—(काव्याद. २.९३)
मुखपङ्कजरङ्गेऽस्मिन् भ्रूलता नर्तकी तव।
लीलानाट्यामृतं दृष्टौ सखि! यूना निषिञ्चति॥ ३५६॥