चतुर्वर्गफलायत्तत्वमित्यनेन चत्वारो वर्गा धर्मार्थकाममोक्षाः, त एव व्यस्ताः समस्ता वा फलं, तत्साधनोपायविषयं महाकाव्यादीति ज्ञापयन् मुक्तकादिभ्यो भेदमाचष्टे।
चतुरोदात्तनायकत्वमित्यनेन कथाशरीरव्यापिनो नायकस्य धर्मार्थकाममोक्षेषु वैचक्षण्यमभिदधान आशयविभूत्योरप्युत्कर्षमभिदधाति।
रसभावनिरन्तरत्वमित्यनेन रसग्रहणेनापि तत्कारणभूतानां भावानां परिग्रहे पृथग्भावग्रहणेन रसभावानां परस्परं कार्यकारणभावमभिदधद् रसेभ्यो भावा भावेभ्यो रसा रसेभ्यश्च रसा इति नैरन्तर्यस्य, रसभावबहुत्वस्यान्वयेन भोजनस्येवैकरसस्य प्रबन्धस्यापि वैरस्यमपाकरोति।
विधिनिषेधव्युत्पादकत्वेन तु गुणवतो नायकस्योत्कर्षप्रकाशनेन दोषवतश्चोच्छेदप्रदर्शनेन जिगीषुणा गुणवतैव भाव्यं, न दोषवतेति व्युत्पादयति।
सुसूत्रसंविधानकत्वमित्यनेन प्रोक्तलक्षणा वक्ष्यमाणलक्षणाश्च पदार्थास्तथा निबन्धनीयाः, यथा प्रबन्धस्य शोभायै भवन्तीति कवीन् शिक्षयति।
रसानुरूपसन्दर्भत्वमित्यनेन रतिप्रकर्षे कोमल उत्साहप्रकर्षे प्रौढः क्रोधप्रकर्षे कठोरः शोकप्रकर्षे मृदुः विस्मयप्रकर्षे तु स्फुटः शब्दसन्दर्भो विरचनीय इत्युपदिशन् 'नैकमोजः प्रसादो वा रसभावविदः कवेः' (माघ. २.८३) इति ख्यापयति।
पात्रानुरूपभाषत्वमित्यनेन उत्तमपात्राणि संस्कृतेन १उत्तमाधमानि प्राकृतेन, मध्यमानि शौरसेन्या जघन्यान्यपभ्रंशेन तदपराणि मागधिकया भाषन्त इति ज्ञापयन् भिन्नभाषेषु भाषाचित्राणामवकाशं ददाति।
१. चेट्याद्यपेक्षयोत्तमत्वं नायकाद्यपेक्षया चाधमत्वमिति राजमहिष्यादयोऽत्र ग्राह्याः उत्तमेष्वधमानीति विगृह्य।
अर्थानुरूपच्छन्दस्त्वमित्यनेन शृङ्गारे द्रुतविलम्बितादयो, वीरे वसन्ततिल— कादयः, करुणे वैतालीयादयः, रौद्रे स्रग्धरादयः, सर्वत्र शार्दूलविक्रीडितादयो निबन्धनीया इत्युपदिशति।
समस्तलोकरञ्जकत्वमित्यनेन अलौकिकतां परिहरन् कीर्त्तिप्रीतिनिबन्धनस्य प्रबन्धस्य लोके प्रतिष्ठया कवेः प्रयासवैयर्थ्यमपाकरोति।