वाक्योपमापि द्विधा— पदार्थयोर्वाक्यार्थयोश्च। तत्र—
पदार्थयोश्चतुर्धा— पूर्णा, लुप्ता, लुप्तपूर्णा, पूर्णलुप्ता चेति। तत्र— उपमानोपमेयसामान्यधर्मद्योतकानां चतुर्णामपि प्रयोगे पूर्णा। यथा—(रुद्रटा. ८.६)
कमलमिव चारु वदनं मृणालमिव कोमलं भुजायुगलम्।
अलिमालेव च नीला तवैव मदिरेक्षणे कबरी॥ ३३७॥
सामान्यधर्मद्योतकलोपे लुप्ता। यथा—(काव्याद. २.३६)
न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे।
न केसराणि कान्ताया इमास्ता दन्तपङ्क्तयः॥ ३३८॥
सामान्यधर्मलोपे लुप्तपूर्णा। यथा—(काव्याद. २.१६, सक. ४.११)
राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव।
रम्भास्तम्भाविवोरू च करिकुम्भाविव स्तनौ॥ ३३९॥