(कुतो लभ्यते पथिक स्रस्तरकमत्र ग्रामणीगृहे।
उन्नतपयोधरान् प्रेक्ष्य यदि वससि तद् वस॥)
५. वाक्ये प्रबन्धे चार्थानां पौर्वापर्यविपर्ययः।
दोषः सोऽपक्रमो नाम चित्रहेतौ न दुष्यति॥ ३५५॥
पश्चात्पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम्।
प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः॥ ३५६॥
६. यस्मिन् रीतेरनिर्वाहः खिन्नं तदभिधीयते।
न दोषस्तस्य तु क्वापि यत्र च्छाया न हीयते॥ ३५७॥