गृहाणि नाम तान्येव तपोराशिर्भवादृशः।
सम्भावयति यान्येवं पावनैः पादपांसुभिः॥ ३६१॥
अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः।
अवकाशो न पर्याप्तस्तव बाहुलतान्तरे॥ ३६२॥ (काव्याद. १.८७)
इति संभाव्यमेवैतद्विशेषाख्यानसंस्कृतम्।
कान्तं भवति सर्वस्व लोकसीमानु वर्तिनः॥ ३६३॥