हालाहलं विषं भुङ्क्ष्व सखि मा तत्र विश्वसीः।
यद्वा न दह्यसे काष्ठैः स्वल्पैस्त्वमिति मे मतिः॥ ३६८॥
९. अप्रस्तुतरसं प्राहुर्विरसं वस्तु सूरयः।
इष्टं तस्याप्यनुज्ञानमप्राधान्ये तयोर्यथा॥ ३६९॥
क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण।
आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः॥