१०. हीनं यत्रोपमानं स्यादुपमेयं गुणाधिकम्।
हीनोपमं तदप्याहुर्न दोषः क्वापि तद्यथा॥ ३७१॥
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता॥ (महाभा. द्रोण. १८४.४६)
यत्रोपमानमुत्कृष्टमुपमेयं निकृष्यते।
ज्ञेयं तदधिकौपम्यमस्यापि क्वाप्यदोषता॥ ३७३॥
कान्त्या चन्द्रमसं धाम्ना सूर्यं धैर्येण चार्णवम्।
राजन्ननुकरोषि त्वं सौभाग्येनापि मन्मथम्॥ ३७४॥
११. उपमानेन वैषम्याद् भवेदसदृशोपमम्।