संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥ ३७६॥
नैकोऽपि त्वादृशोऽद्यापि जायमानेषु राजसु।
ननु द्वितीयो नास्त्येव पारिजातस्य पादपः॥ ३७७॥
उभयाभावे यथा—(स.क. ३.१८४)
न मर्त्यलोकस्त्रिदिवात् प्रहीयते म्रियेत नाग्रे यदि वल्लभो जनः।
निवृत्तमेव त्रिदिवप्रयोजनं मृतः स चेज्जीवत एव जीवति॥ ३७८॥
अस्य च साम्योत्कर्षादिभिरनन्त उक्तिप्रपञ्चः। साम्येन यथा—(शाकु. १.१६)
शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य।