एक्कोण्णामिअमुअभंगे विमलकवोले वअणम्मि तुअ मअच्छि तिरिञ्छणअणे।
एहु ससिबिबउ कलंगगारउ पण्डर उखित्तउ उप्परेण भमाइ अणिमञ्छणखप्परउ॥ ३८३॥
(एकोन्नामितभ्रूभङ्गे विमलकपोले वदने तव मदाक्षि तिर्यङ्नयने।
एतच्छशिबिम्बं कलङ्कागारं पाण्डरमुत्क्षिप्त— मुपरि भ्रामयित्वा निर्मञ्छनकर्परम्॥)
उभयापकर्षेण यथा—(गा.स.१.१३)
घरिणीए महाणसकम्मलग्गमसिमलिइ/मइलि—एण हत्थेण।
छित्तं मुहं हसिज्जइ, चंदावत्थं गअं पइणा॥ ३८४॥
(गृहिण्या महानसकर्मलग्नमषीमलिनितेन/मलिनेन हस्तेन।
स्पृष्टं मुखं हस्यते चन्द्रावस्था गतं पत्या॥)