उपमानस्य साम्यापकर्षो यथा—
अन्यतो नय मुहूर्तमाननं चन्द्र एष सरले ! कलामयः।
मा कदाचन कपोलयोर्मलं संक्रमय्य समतां नेष्यति॥ ३८५॥
अनुत्कर्षापकर्षं यथा—(रुद्रटा. ८.१०८)
मगं मृगाङ्कः सहजं कलङ्कं बिभर्ति तस्यास्तु मुखं कदाचित्।
आहार्यमेकं मृगनाभिपत्रमियानशेषेण तयोर्विशेषः॥ ३८६॥
एवमन्यदपि यथा—(रुद्रटा. ८.७३)
किं मरणं ! दारिद्रयं, को व्याधिर्जिवितं दरिद्रस्य।
कस्स्वर्गः ! सन्मित्रं, सुकलत्रं, सु्प्रभुः, सुसुतः,॥ ३८७॥