भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1401 to 1410 of 1530 verses
द्वितृतीयचतुर्थानां त्रिलोपे लोप इष्यते॥ ३९०॥

गर्भाङ्कचूलिकाङ्कमुखविष्कम्भकप्रवेशकविधानमित्यनेन संक्षेपाभिधानेनापि कथाशरीरस्याविच्छेदाद् रसाविच्छेदं रसान्तरतिरस्कारं च सूचयति। तत्र—

बीजार्थयुक्तिमान् अङ्को योऽङ्केष्वङ्कः प्रयुज्यते।

स नाटकेषु गर्भाङ्कोऽङ्कावतारश्च कथ्यते॥ ३९१॥

यथा बालरामायणे—(३.१२)

श्रवणैः श्रव्यमनेकैर्दृश्यं दीर्घैश्च लोचनैर्बहुभिः।

भवदर्थमिव निबद्धं नाट्यं सीतास्वयंवरणम्॥ ३९२॥

अन्तर्यवनिकासंस्थैः सूतादिभिरनेकधा।

अर्थोपक्षेपणं यत्र क्रियते सा हि चूलिका॥ ३९३॥

यथा वेणीसंहारे नेपथ्ये—(वेसं. ३.१९)

Showing 1401 to 1410 of 1530 verses