हीनाभ्यामेव पात्राभ्यामङ्कादौ यः प्रयुज्यते।
प्रवेशकस्स विज्ञेयः शौरसेन्यादिभाषया॥ ३९७॥
यथा— ततः प्रविशतश्चेट्यौ।
एका— सहि! संगीदसालापरिसरे अवलोइदादुदिआ भअवदी मंतअंती आसी। (सखि! संगीतशालापरिसरे अवलोकिताद्वितीया भगवती मन्त्रयन्ती आसीत्।)
द्वितीया— सहि! तेण किल माहवपिअवयस्सेण मअरन्देण सअलो मअरंदउज्जाणउत्तंतो भअवदीए णिवेदिदो। (सखि तेन किल माधवप्रियवयस्येन मकरन्देन सकलो मकरन्दोद्यानवृत्तान्तो भगवत्यै निवेदितः।) इत्यादि।
देशकालपात्रचेष्टाकथान्तरानुषञ्जनमित्यनेन परिपूर्णाङ्गेऽपि संविधानके देशकालाद्यविरोधेन तद्वर्णनादिकं निर्दिशति। तत्र
देशान्तरानुषञ्जनं यथा शिशुपालवधे— (माघ. ४.१०)
मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः।
भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः॥ ३९८॥
कालान्तरानुषञ्जनं यथा किरातार्जुनीये—(किराता. १०.१८)