आचार्यस्य त्रिभुवनगुरोर्न्यस्तशस्त्रस्य शोकाद् द्रोणस्याजौ नयनसलिलच्छादिताक्षाननस्य।
मौलौ पाणिं पलितधवले न्यस्य कृत्वा नृशंसं धृष्टाद्युम्नः स्वशिबिरमयं याति सर्वे सहध्वे॥ ३९४॥
विशिष्टं मुखमङ्कस्य स्त्रिया वा पुरुषेण वा।
यदुपक्षिप्यते पूर्वं तदङ्कमुखमुच्यते॥ ३९५॥
यथा— मालतीमाधवे— 'एषास्मि सौदामनी भगवतः श्रीपर्वतादुपेत्य' इत्यादि॥
नीचमध्यमपात्राभ्यां मध्यमाभ्यां प्रयुज्यते।
तदङ्कमुखमेवेह विष्कम्भक इति स्मृतम्॥ ३९६॥
{कामन्दकी— वत्से! अवलोकिते ! अवलोकिता— आणवेदु भअवदी (आज्ञापयतु भगवती।)}
कामन्दकी— अपि नाम कल्याणिनोरनयोर्भूरिवसुदेवरातापत्ययोर्मालतीमाधव— योरभिमतः पाणिग्रहः स्यादित्यादि। (मामा. १)