सन्ध्याभ्रकपिशस्तत्र विराधो नाम राक्षसः।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः॥ ३८७॥
यदाधिकारिकं वस्तु सम्यक् प्राज्ञैः प्रयुज्यते।
यदर्थश्च समारम्भस्तत् कार्यमिति कीर्तितम्॥ ३८८॥
आज्ञा कृता गुरूणां सुहृद्भिरपरिक्षतैरहं युक्तः।
दृष्टो भगवान् साक्षाद्देवी प्राप्ता प्रियं किमतः॥ ३८९॥
एषां त्वेकद्वित्रिलोपे नियम उच्यते—(नाशा. १९.१८)
एकलोपे चतुर्थस्य द्विलोपे त्रिचतुर्थयोः।