ध्वस्ताः क्षुद्राः धार्तराष्ट्रास्समस्ताः पीतं रक्तं स्वाद् दुश्शासनस्य।
पूर्णा कृष्णाकेशबन्धप्रतिज्ञा तिष्ठत्येकः कौरवस्योरुभङ्गः॥ ३८३॥
यस्या वृत्तं परार्थं स्यात् प्रधानस्योपकारकम्।
आत्मानुबन्धफलवत् सा पताकेति कीर्तिता॥ ३८४॥
दिष्ट्या सैष महाबाहुरञ्जनानन्दवर्धनः।
यस्य वीर्येण कृतिनो वयं च भुवनानि च॥ ३८५॥
फलं प्रकल्पते यस्याः परार्थायैव केवलम्।
अनुबन्धविहीनां तां प्रकरीति विनिर्दिशेत्॥ ३८६॥