दूरीकृताः खलु गुणौरुद्यानलता वनलताभिः॥ ३७९॥
उत्कर्षेण यथा—(बारा. २.१७)
तद् वक्त्रं यदि मुद्रिता शशिकथा तच्चत् स्मितं का सुधा तच्चक्षुर्यदि हारितं कुवलयैस्ताश्चेद् गिरो धिङ् मधु।
हा कन्दर्पधनुर्भुवौ च यदि ते किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविरसः' सर्गक्रमो वेधसः॥ ३८०॥
साम्योत्कर्षाभ्यां यथा—(विसा. ३.२७)
तरङ्गय दृशोऽङ्गने ! पततु चित्रमिन्दीवरं स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम्।
क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिका— मुदञ्चय मनाङ् मुखं भवतु च द्विचन्द्रं नभः॥ ३८१॥
उपमेयापकर्षेण यथा—(रुद्रटा. ८.७८)
गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं भद्रे !।
सन्तीदृशानि दिशि सरःसु ननु नीलनलिनानि॥ ३८२॥