तस्याभ्यनुज्ञामिच्छन्ति व्यतिरेकोपमादिषु॥ ३७५॥
प्रहितः प्रधनाय माधवानहमाकारयितुं महीभुजा।
न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव॥
यस्योपमानं लोकेषु न प्रसिद्धं तदिष्यते।
अप्रसिद्धोपमं नाम तत्कवचिन्नैव दुष्यति॥ ३७७॥
उद्गर्भहूणरमणीरमणोपमर्दभग्नोन्नतस्तननिवेशनिभं हिमांशोः।
बिम्बं कठोरबिसकाण्डकडारगौरैर्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति॥ ३७८॥
१२. निरलङ्कारमित्याहुरलङ्कारोज्झितं वचः।