अर्थौर्जित्येषु तस्यापि क्वचिन्निर्दोषता यथा॥ ३७९॥
याञ्चां दैन्यपराभवप्रणयिनीं नेक्ष्वाकवः शिक्षिताः
सेवासंवलितः कदा रघुकुले मौलौ निबद्धोऽञ्जलिः।
सर्वं तद् विहितं तदाप्युदधिना नैवोपरोधः कृतः
पाणिः सम्प्रति मे हठात् किमपरं स्प्रष्टुं धनुर्वाञ्छति॥ ३८०॥
१३. असभ्यार्थं यदश्लीलं यदर्थान्तरवाचि वा।
तस्येह दृश्यते भूम्ना प्रयोगो नापि दृष्यति॥ ३८१॥
अद्यापि तत्कनककुण्डलघृष्टगण्डं
वक्त्रं स्मरामि विपरीतरताभियोगे।