विरोधः सकलोऽप्येष कदाचित् कविकौशलात्।
व्युत्क्रम्य दोषगणनां गुणवीथीं विगाहते॥
तत्र देशविरुद्धस्य गुणभावो यथा—
तस्य राज्ञः प्रभावेण तदुद्यानानि जज्ञिरे।
आर्द्रांशुकप्रवालानामास्पदं सुरशाखिनाम्॥ ३८७॥
राज्ञां विनाशपिशुनश्चचार खरमारुतः।
धून्वन् कदम्बरजसा सह सप्तच्छदोद्गमान्॥ ३८८॥