औचित्यविरुद्धस्य यथा—(रा.च.१९.८९)
सौम्यापि नाम परुषत्वमभिप्रपन्ना।
जज्वाल तीक्ष्णविशदाः सहसोद्गिरन्ती
वागर्चिषस्तपनकान्तिशिलेव सीता॥ ३९१॥
वचनविरुद्धस्य यथा—(काव्याद. ४.१०)
अस्ति काचिदवस्था सा साभिषङ्गस्य चेतसः।
यस्यां भवेदभिमता विरुद्धार्थापि भारती॥ ३९२॥
परदाराभिषङ्गो मे कथमार्यस्य युज्यते।
पिबामि तरलं तस्याः कदा नु दशनच्छदम्॥ (काव्याद. ४.११)