भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1451 to 1460 of 1676 verses
ननु च गुणकल्पनेयं नोपचारकल्पना। तथा हि—विशेष्येषु गुणकल्पना विशेषणेषूपचारकल्पनेति प्रदर्शितं पुरस्तात्।१ न च गुणवृत्तिरुपचारवृत्तावन्तर्भवति, अपि तूपचारवृत्तिर्गुणवृत्तौ। द्विधा हि गौणी, गुणनिमित्ता उपचारनिमित्ता च। सत्यमेतत्। किंतु व्यवहितप्रतिपत्तिसाधनत्वसाधर्म्याददूरविप्रकर्षेण गौणीमप्युपचरितामेवाचक्षते।

अक्षपादस्तु 'सहचरणस्थानतादर्थ्यादिभ्यस्तद्वदुपचार' इति ब्रुवाणो (न्यायसू. २.२) यष्टीः प्रवेशय, मञ्चाः क्रोशन्ति, मल्लिका प्रदीप इत्यादिषु लक्षणामप्युपचारपक्षे प्रतिक्षिपति। न च लक्षणागौण्योरभेद इति वक्तव्यम्। यदाह भट्टः —

अभिधेयाविनाभूतप्रतीतिर्लक्षणेष्यते।

लक्ष्यमाणगुणैर्योगाद् वृत्तेरिष्टा तु गौणता॥ ३९७॥

(तवा. १४.२२) १. पृष्ठ ४४।

तत्र लक्षणायां यथैवाकृतिवचनः शब्दः तत्सहचरितां व्यक्तिं लक्षयति तथैव यष्टिमञ्चप्रदीपादयस्तत्सम्बद्धपुरुषादिलक्षणार्थाः प्रथन्ते। गौण्यां पुनरग्‍निर्माणवकः, सिंहो देवदत्तः, गौर्बाहीकः, इत्यादिषु नाग्‍नित्वाद्यविनाभावेन माणवकादयः प्रतीयन्ते। किं तर्हि—

वह्नित्वलक्षणादर्थाद् यत्पैङ्गल्यादि गम्यते।

तेन माणवके बुद्धिः सादृश्‍यादुपजायते॥ ३९८॥

(तवा. १४.२२)

ननु च न गौणमुख्ययोर्विवेको युज्यते। तथा हि— एक एवायं गोशब्दो वाक्ये क्‍वचिज्जातिविशेषाभिधायी गौरनुबन्ध्य इति, क्‍वचिज्जात्युपसर्जनद्रव्यमात्रवाची गौरानीयतामिति, क्‍वचित्परिच्छिन्न एव द्रव्यविशेषे वर्तते, अस्त्यत्र कांचिद् गां पश्‍यसीति (मभा. १.२.५८); क्‍वचित्तु रूढसम्बन्धेषु क्रियागुणेषु गोशब्दः प्रयुज्यमानो दृश्‍यते, यथा— जाड्यादौच्छिष्ट्यात् सर्वसहत्वान्महाशनत्वाद् वा गौर्बाहीक इति। तदेवं सर्वशक्तेर्गोशब्दस्यार्थप्रकरणादिभिरवच्छिद्यमानसामर्थ्यस्य पृथिव्यादाविव बाहीकेऽपि वर्तमानस्य न गौणत्वमुपपद्यते। तदाह—(वाप. २.२५३)

Showing 1451 to 1460 of 1676 verses