सर्वशक्तेस्तु तस्यैव शब्दस्यानेककर्मणः।
प्रसिद्धिभेदाद् गौणत्वं मुख्यत्वं वा प्रकल्प्यते॥ ३९९॥
यथा सास्नादिमान् पिण्डो गोशब्देनाभिधीयते।
तथा जाड्यादिगुणवान् बाहीकोऽप्यभिधीयते॥ ४००॥
यत्र स्वविषय एव शब्दः प्रयुज्यते तत्र मुख्यः। यत्र तु कुतश्चिन्निमित्तात् प्रवृत्तिनिमित्तमर्थान्तरेऽध्यस्य प्रयुज्यते तत्र गौणः।
यद्यपि जातिशब्दः तया जात्या स्वनिबन्धनभूतया विनात्यन्तानभिधेये क्रियागुणमात्रद्वारेण नान्यत्र वर्तितुमर्हति, न च शब्देनाप्रवर्तमानेन गौर्बाहीक इति सामानाधिकरण्यप्रयोगो घटते, तथापि यथा— कथंचित् सम्मोहाद् रज्जुद्रव्ये प्राप्ते बुद्धिविपर्ययांदर्थान्तरेऽर्थाररूपमध्यारोप्य स्वविषय एव सर्पशब्दं प्रयुङ्क्ते तथा कस्यचिदेव सदृशस्य धर्मस्य भूतस्य दर्शनाद् भाविनो वा भूतासङ्गात् प्राप्तरूपविपर्यासायां बुद्धौ बाहीके गोत्वमासज्य गोशब्दं सास्नादिमत्येव पिण्डे प्रयुङ्क्ते।
एवमप्यर्थरूपमात्रविपर्ययः, शब्दस्य तु स्वविषयव्यभिचारो न विद्यते।
न चाध्यारोपः शक्यते कर्तुम्। तथा हि — यदा तावद् भ्रान्त्या मृगतृष्णायां तोयं शुक्तिकायां रजतमध्यारोप्य तच्छब्दं प्रयुङ्क्ते तदोभयोः प्रतिपाद्यप्रतिपादकयो— र्मुख्याध्यवसानरूपेणैव तोयादिप्रतीतेस्तद्भावापत्तिर्मुख्यत्वम्; अथापि वक्ता विवेकी सन् इतरवञ्चनार्थं प्रयुङ्क्ते, श्रोता च न विविङ्क्ते, तदा तु एकस्य विवेकेना— ध्यारोपाभावादितरस्य च विपर्ययमुख्यत्वान्नैकमपि प्रति गौणत्वोपपत्तिः।
यदा तु द्वावप्यभ्रान्तौ तदोभयोः सादृश्यादिनिमित्तात् तन्निमित्तवत्य— र्थाध्यवसानादध्यारोपाभावः। यथैव ह्यसदृशानामर्थानां तिक्तमधुरादीनां न कथंचिदपि प्रतीत्यभावात् परस्पराध्यारोपणम्, एवं सदृशानामपि विवेकज्ञानात् नोपपद्यते। न च प्रतीतिविपरीतं ज्ञानं व्यवहाराङ्गं भवति।