णइसोत्ते व्व तरङ्गे रअणाइ व गरुअगुणसआइ वहहंतं॥ ३९८॥
(धैर्यमिव जलसमूहं तिमिनिवहमिव सपक्षपर्वतलोकम्।
नदीस्त्रोतांसीव तरङ्गान् रत्नानीव गुरुकगुणशतानि वहन्तम्॥)
द्वितीया (असादृश्यवती) यथा—(सेब. ५.७)
धीरेण समं जामा हिअएण समं अहिठ्ठिआ उवएसा।
उच्छाहेण सह भुआ बाहेण समं गलन्ति से उल्लावा॥ ३९९॥
(धैय्रेण समं यामा हृदयेन सममनिष्ठिता उपदेशाः।
उत्साहेन सह भुजौ बाष्पेण समं गलन्त्यस्योल्लापाः॥)
द्रव्यगुणक्रियाणामेकत्र बहूनामारोपणं समुच्चयोक्तिः।