पुरं त्रिकूटं परिखा पयोनिधिः प्रभुर्दशास्यः सुभटा निशाचराः।
नरोऽभियोक्ता रिपवः प्लवङ्गमाः किमत्र वो हास्यपदे महद् भयम्॥ ४०३॥
विवक्षितगुणोत्कर्षैः स्तुतिनिन्दार्थं सहाभिधानं तुल्ययोगिता। सा स्तुत्यर्था यथा—(काव्याद. ३.२८)
शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः।
यदलङ्घितमर्यादाश्चलन्तीं बिभृथ क्षितिम्॥ ४०४॥
निन्दार्था यथा—(काव्याद. २.३३२)
सङ्गतानि मृगाक्षीणां तटिद्विलसितानि च।
क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम्॥ ४०५॥