सा चतुर्धा— एकद्योतका, अनेकद्योतका, एकानेकद्योतका, अद्योतका च।
कलाः प्रलापा गतयो मदालसा विशुद्धविस्त्रम्भरसाः समागमाः।
तदङ्गनानां रमणीयतां ययुर्विसर्पिलज्जाविभवाश्च विभ्रमाः॥ ४००॥
अप्राकृतस्स कथमस्तु न विस्मयाय यस्मिन्नुवास करुणा च कृतज्ञता च।
लक्ष्मीश्च सात्त्विकगुणोज्ज्वलितं च तेजो धर्मश्च मानविनयौ च पराक्रमश्च॥ ४०१॥
विचिन्त्यमानं मनसाऽपि देहिनामिदं हि लोकेषु चकास्ति दुर्लभम्।
निशा सचन्द्रा मदिरा च सोत्पला प्रियानुरागोऽभिनवं च यौवनम्॥ ४०२॥