अथ किमेतानि नगरार्णववर्णनादीनि समुच्चयप्रयोज्यानि, उत विकल्पप्रयोज्यानि? समुच्चयप्रयोज्यानीति चेत् किरातार्जुनीयादौ नगरार्णवार्कोदय— कुमारविवाहाभ्युदयादीनां भणनं; अथ विकल्पेन यथेष्टकल्पनायाम्, अलक्षणप्रसङ्गः।
तन्न; अङ्गकल्पनस्योभयथापीष्टत्वात्। यदा कथाशरीरस्य परिपूर्णाङ्गसम्भवः तदा समुच्चयेन, यदान्यथा तदा विकल्पेनेति। तत्रापि केषांचिदेवाङ्गानां विकल्पः, अपरेषां नियमेन प्रयोगः। यानि पुरुषार्थस्य कामादेरासन्नोपकारीणि तानि नियमतः प्रयुज्यन्ते। यथा— 'मन्त्रदूतप्रयाणाजिनायकाभ्युदयादयः।' (भामहा. १.२०)
यथा च शैलर्तूद्यानगमनजलक्रीडाचन्द्रोदयमधुपानरतोत्सवादयः। तानि च यदि कथाशरीरे न स्युः, तदा कथान्तराद्यनुषञ्जनेनापि कर्तव्यानीति प्रचक्षते। तदेतदुभयमपि तत्र तत्र नियम्यमानं शब्दलक्षणमर्थलक्षणं च वेदितव्यम्। तद्यथा—
सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम्।
आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्॥ (काव्याद. १.१४–२०)
इतिहासकथोद्भूतमितरद् वा सदाश्रयम्।
चतुर्वर्गफलोपेतं चतुरोदात्तनायकम्॥ ४०८॥
नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनैः ।
उद्यानसलिलक्रीडामधुपानरतोत्सवैः॥ ४०९॥
विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः।