पञ्चावस्थाभिनिष्पन्नैः पञ्चभिस्सन्धिभिर्युतम्॥ ४१४॥
सन्ध्यन्तरैकविंशत्या चतुष्षष्ट्यङ्गसंयुतम्।
महारसं महाभोगमुदात्तवचनान्वितम्॥ ४१५॥
महापुरुषसञ्चारं साध्वाचारजनप्रियम्।
सुश्लिष्टसन्धिसंयोगं सुप्रयोगं सुखाश्रयम्॥ ४१६॥
मृदुशब्दाभिधानं च गुणालङ्कारसंयुतम्।
लक्षणैश्च चतुष्षष्ट्या युक्तं कुर्वीत नाटकम्॥ ४१७॥
नाटके लक्षणं यत्तु तत् स्यात् प्रकरणेऽपि च।
सट्टके नाटिकायां च किञ्चिदूनं तदुच्यते॥ ४१८॥
महाकाव्येषु ग ग ग ग ग ग ग तत्।