काव्यवर्जं समस्तेषु पदार्थाभिनयेषु च॥ ४२४॥
कैशिकीवृत्तिहीनानि डिमादीन्यष्ट लक्षयेत्।
कथादिषु यथायोगं विज्ञेया वृत्तिकल्पना॥ ४२५॥
संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादि यत्।
अवस्कन्धान्यपभ्रंशो नाटकादि तु मिश्रकम्॥
इति संक्षेपतः प्रोक्तं महाकाव्यादिलक्षणम्।
शेषं यद् यत्र निर्दिष्टं तत् तत्रैवोपलक्षयेत्॥ ४२७॥
तन्महाकाव्यमित्याहुर्महतां च महच्च यत्।
निरुक्तमवगन्तव्यमित्थमेवापरेष्वपि ॥ ४२८॥