काव्यशास्त्रादिषु तथा तथैवाख्यायिकादिषु॥ ४१९॥
महाकाव्यादयः पद्यं गद्यमाख्यायिकादयः।
गद्यपद्यमयी चम्पूः पद्यगद्ये तथा पृथक्॥ (काव्याद.१.३१)
पञ्चसन्धि महाकाव्यं नाटकं नाटिका तथा।
आख्यायिका प्रकरणं पर्वबन्धादयश्च ये॥ ४२१॥
डिमस्समवकारश्च चतुस्सन्धी प्रकीर्तितौ।
व्यायोगेहामृगौ प्राज्ञैः संविधेयौ त्रिसन्धिकौ॥ ४२२॥
द्विसन्धि स्यात् प्रहसनं वीथ्यङ्कौ भाण एव च।
प्रवह्लिकादिषु ज्ञेया यथेष्टं सन्धिकल्पना॥ ४२३॥
न सन्धिकल्पना कोशसङ्घातादिषु विद्यते।