भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1501 to 1510 of 2002 verses
लोकस्य हृदयग्राही सोऽभिप्राय इति स्मृतः॥ ३३७॥ (नाशा.१६.१४अ)

यथा मुद्रावेदे(विद्धसालभञ्जिकायां द्वितीयेऽङ्के)—

विलीयेन्दुः साक्षादमृतरसवापी यदि भवेत् कलङ्कस्तत्रत्यो यदि च विकचेन्दीवरवनम्।

ततस्स्‍नानक्रीडाजनितजडभावैरवयवैः कदाचिन्मुञ्चेयं मदनशिखिपीडापरिभवम्॥ ३३८॥

(विसा. २.२)

(१०. निदर्शनम्)

यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम्।

परापेक्षाव्युदासार्थं तन्निदर्शनमुच्यते॥ ३३९॥ (नाशा.१६.१५अ)

यथा मालतीमाधवे

कामन्दकी—अयि सरले, किमत्र शक्यं भगवत्या? प्रभवति हि प्रायः कुमारिकाणां जनयिता दैवं च। यच्च किल कौशिकी शकुन्तला दुष्यन्तम्, उर्वशी चाप्सराः पुरूरवसमैलकं चकम इत्याख्यानविद आचक्षते, तदपि साहसकल्पमित्यनुपदेष्टव्यम्, इति ॥ ३४०॥

Showing 1501 to 1510 of 2002 verses