मधुराऽपि हि मूर्च्छयते विषविटपिसमाश्रिता वल्ली॥
दृष्ट्वैवावयवान् कांश्चिद् भावो यत्रानुमीयते।
प्राप्तिं तामभिजानीयाल्लक्षणं नाटकाश्रयम्॥ ३३६॥
यथा रत्नावल्यां द्वितीयेऽङ्के, कदलीगृहे चित्रगतां सागरिकां निर्वर्णयति राजनि— विदूषकः—भो वअस्स, कीस उण एसा ओरुण्णमुही आलिहिदा। (भो वयस्य, कस्मात् पुनरेषा रुदितमुख्यालिखिता?)
(एतच्छ्रुत्वाऽऽह सुसङ्गता) सहि, जह अय्यवसंतिओ मंतेहि तह तक्केमि भट्टिणा वि इह एव्व होदव्वं ति। (सखि, यथा आर्यवसन्तको मन्त्रयते तथा तर्कयामि भर्त्रापीहैव भवितव्यम्, इति)
अभूतपूर्वोऽप्यर्थो यस्सादृश्यात् परिकल्पितः।