यथा रत्नावल्यां, द्वितीयेऽङ्के
विदूषकः— सच्चं सबामि बम्हसुत्तेण, जइ अम्हेहिं ईदिसी कदा वि पुरा (दिठ्ठपुव्वा)। (सत्यं शपे ब्रह्मसूत्रेण, यदि अस्माभिरीदृशी कदापि दृष्टपूर्वा।)
काञ्चनमाला—भट्टिणि, घुणक्खदं वि संवददि एव्व। (भट्टिनि, घुणाक्षरमपि संवदत्येव)
वासवदत्ता—अयि उज्जिए, अय्यवसन्तओ एसो। ण आणासि एदस्स वक्कभणिदीओ। (अयि ऋजुके, आर्य वसन्तक एषः। न जानासि एतस्य वक्रभणितीः।) ॥ ३३२॥
अपरिज्ञाततत्त्वार्थं यत्र वाक्यं समाप्यते।
सोऽनेकत्वाद् विचाराणां संशयः परिकीर्तितः॥ ३३३॥
यथा रत्नावल्यां चतुर्थेऽङ्के
वसुभूति:— (सागरिकां निर्वर्ण्य) बाभ्रव्य! सुसदृशीयं राजपुत्र्याः।