राजा—(आत्मगतम्), किं शकुन्तलेति तस्य मातुराख्या? ॥ ३२६॥
सिद्धैरर्थैस्समं कृत्वा यत्रासिद्धं प्रसाध्यते।
श्लिष्टा श्लक्ष्णा विचित्रार्था सा शोभेत्यभिधीयते॥ ३२७॥
यथा रत्नावल्यां प्रथमेऽङ्के,
यौगन्धरायणः—एवमेतत्, कः सन्देहः?
द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात्।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः॥ ३२८॥(रत्ना. १६.७)
अन्यथा क्व सिद्धादेशप्रत्ययप्रार्थितायाः सिंहलेश्वरदुहितुः समुद्रे प्रवहणभङ्गमग्नोत्थितायाः फलकासादनं, क्व च कौशाम्बेनैव वणिजा सिंहलेभ्यः प्रत्यागच्छता तदवस्थायाः सम्भावनं सरत्नमालाचिह्नायाश्च परिज्ञायेहानयनम्? सर्वथा स्पृशन्ति स्वामिनमभ्युदयाः, इति।