यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात्।
साध्यन्ते निपुणैरर्थास्तदुदाहरणं स्मृतम्॥ ३२९॥
यथा रत्नावल्यां, द्वितीयेऽङ्के, राजा विदूषकश्च शारिकावचनं निशमयतः। ततो विदूषकः— (आकाशे) किं . . . . . अयं कामदेवो आलिहिदो मह वि तादिसी रइ त्ति। भो वअस्स, किं णेदं। {किम् (अकारणे कुप्यसि। यादृशस्त्वया) अयं कामदेव आलिखितो तादृशी मयाऽपि रतिरिति। भो वयस्य, किं न्विदम्?}
राजा—वयस्य, एवं तर्कयामि। कयापि हृदयवल्लभोऽनुरागादभिलिख्य कामव्यपदेशेन निह्नुतस्तत्सख्यापि प्रत्यक्षिज्ञाय वैदग्ध्यादप्रतिभिन्दानया सापि तत्रैव लिखिता, इति ॥ ३३०॥
यत्प्रयोजनसामर्थ्याद् वाक्यमिष्टार्थसाधकम्।
समासोक्तमनोग्राहि स हेतुरिति संज्ञितः॥ ३३१॥