बाभ्रव्य:—ममाप्येतदेव मनसि वर्तते।
सर्वलोकमनोग्राही यस्तु पक्षार्थसाधकः।
हेतोर्निदर्शनकृतस्स दृष्टान्त इति स्मृतः॥ ३३४॥
यथा(च) वेणीसंहारे प्रथमेऽङ्के,
चेटी—अइ जण्णसेणि! उ (?) पंच गामा पत्थीअन्ति त्ति अज्ज वि एदे केसा ण संजमीअंति, इति। (अयि याज्ञसेनि! पञ्च ग्रामाः प्रार्थ्यन्त इति अद्यापि एते केशा न संयम्यन्ते।) (इति भानुमतीवचसि बुद्धिमतिकयाऽऽख्याते)
सहदेवः— आर्य, दुर्योधनकलत्रं सा।
स्त्रीणां हि साहचर्याद् भवन्ति चेतांसि भर्तृसदृशानि।