मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि ॥ ४१०॥
अलङ्कृतमसंक्षिप्तं रसभावनिरन्तरम्।
सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुमन्धिभिः॥ ४११॥
सर्वत्र भिन्नसर्गान्तैरुपेतं लोकरञ्जकम्।
काव्यं कल्पान्तरस्थायि जायते सदलङ्कृति॥ ४१२॥
न्यूनमप्यत्र यैः कैश्चिदङ्गैः काव्यं न दुष्यति।
यद्युपात्तेषु सम्पत्तिराराधयति तद्विदः॥ ४१३॥
यथा च— (नाशा. १९.१३९–१४१)
वृत्तिप्रत्यङ्गसम्पन्नं पञ्चार्थप्रकृतिक्षमम्।