तज्जयान्नायकोत्कर्षकथनं च धिनोति नः॥ ४०६॥
किं पुनरयं नायकेन रिपोरुच्छेदः क्रियमाणो दोषवतो वा स्याद्? गुणवतो वा?
यदि दोषवतस्तदा तत एवोच्छेदः। न हि शीर्यमाणनदीतटोपविष्टप्रक्षेपणे पुरुषकारः साफल्यमनुभवति। तदुक्तं 'काष्ठमिव च घुणजग्धमविनीतपुत्रं राजकुलमनियुक्तमात्रं 'भज्येत'।
नापि गुणवतः, तस्यानुच्छेद्यत्वात् नायकस्य द्विषतो वा न कश्चिद्विशेष इति।
नैवम्; विधिनिषेधव्युत्पत्तिफलत्वात् प्रबन्धानाम्। तथा हि— रामायणादिषु गुणवतो नायकस्य उत्कर्षप्रदर्शने न दोषः। को हि गुणार्जनं प्रति यतेत यदि गुणवतोऽप्युत्छेदः स्यात्? अपि च गुणवत्त्वे तुल्ये एकस्य जयोऽन्यस्य पराजय इति नियमनिमित्तमभिधानीयम्; तन्नान्तरेण दैवं भवितुमर्हति। दैवसम्पादितायां च सिद्धौ पुरुषकारशून्यस्य नायकस्य द्विषतो वा न कश्चिद्विशेष इति।
नैवं; विधिनिषेधव्युत्पत्तिफलत्वात् प्रबन्धानाम्। तथा हि रामायणादिषु गुणवतो नायकस्य उत्कर्षप्रदर्शनेन दोषवतश्चोच्छेदप्रकाशेन एतद्व्युत्पाद्यते रामवद् वर्तितव्यं न रावणवत्, यथा रामस्य पितुराज्ञां परिपालयतो वनवासिनोऽपि विजयः संपन्नः, रावणस्य च परदारानभिलषतःस्त्रैलोक्यविजयिनोऽप्युच्छेदः, तथान्यस्यापि संपत्स्यत इति विधिनिषेधव्युत्पत्तिः। तदनुविधानेन च महाकाव्यादिप्रबन्धानां विरचनेति।
यत्पुनरिदमुक्तं दोषवतः समुच्छेदे स्वत एव विशीर्यमाणत्वात् क इव नायकस्योत्कर्षः? को वा गुणार्जनं प्रति यतेत, यदि गुणवतोऽप्युच्छेदः स्यात्?
तत्र न पुरुषार्थविषयत्वेन दोषवत्त्वम्; नाप्युच्छेदनिमित्तत्वेन गुणवत्त्वम्; अपि तूच्छेदनिमित्तत्वेन दोषवत्त्वं, नायकोत्कर्षप्रकाशकत्वेन च प्रतिपक्षस्य च गुणसमृद्धिर्वर्ण्यते। स्थित्यतिक्रमश्च तस्योच्छेदनिमित्तं भवति। तथा च पुराणेषु हिरण्यकशिपुप्रभृतीनां देवताराधनप्राप्तमहावीर्याणां त्रैलोक्यकण्टकत्वेन समुच्छेदो दृश्यते। वंशवीर्यश्रुतादिवर्णनजनितश्च तदुत्कर्षस्तज्जयान्नायकस्यैवोत्कर्षहेतुर्भवति॥