शृणु येन गतः स कर्मणा शलभत्वं हरलोचनार्चिषि॥ ४०२॥
द्विसन्धानमित्यनेन वाक्यप्रकरणप्रबन्धानामनेकार्थानुसन्धानेन कवेः शक्तिविशेषं व्यञ्जयति। तत्र —
किञ्चिदेकमेव वाक्यं प्रकरणं प्रबन्धो वा द्वयोरर्थयोः संगच्छते।
किंचिदभिन्नार्थमेवोच्यमानमनेकेन श्रोत्रा सम्बन्धमनुभवति।
किञ्चित्पुनरेकमुद्दिश्याभिधीयमानमर्थभेदादन्येनापि सम्बध्यते। तत्र— आद्यस्योदाहरणं यथा मालतीमाधवे —
'महाभाग! सुश्लिष्टगुणतया रमणीय एष सन्निवेशः। कुतूलिनी च नो भर्तृदारिका वर्तते तस्यामभिनवो विचित्रकुसुमेषुव्यापारः। तद्भवतु कृतार्थता वैदग्ध्यस्य। फलतु निर्माणस्य रमणीयता। समासादयतु सरस एव (ष) भर्तृदारिकायाः कण्ठावलम्बनमहार्घतामिति।'
द्वितीयस्य यथा शिशुपालवधे— (माघ. १६.१)
दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ।
उपगम्य हरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद् वचः॥ ४०३॥
तृतीयस्य यथा दण्डिनो धनञ्जयस्य वा द्विसन्धानप्रबन्धौ रामायणमहाभारतार्थावनुबध्नाति।