चतुर्थस्य यथा कुमारसम्भवे—(कुसं. २.१८)
स्वागतं स्वानधीकारान् प्रभावैरवलम्ब्य वः।
युगपद् युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः॥ ४०४॥
इत्यादिप्रकरणं चतसृष्वपि दिक्ष्ववस्थितैर्दिवौकोभिर्ब्रह्मणाभिधीयमानमभिसम्बध्यते।
पञ्चमस्य यथा कीचकवधे द्रौपदी विराटमभिभाषमाणा तेनैव वाक्येन युधिष्ठिरादीनभिभाषत इति।
मार्गद्वयानुवर्तनमित्यनेन महाकवीनां समयमुपलक्षयति। तत्र—
गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम्।
निराकरणमित्येष मार्गः प्रकृतिसुन्दरः॥ ४०५॥
वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि।