उत्तुङ्गें कृतसंश्रयस्य शिखरिण्युच्चावचग्रावणि न्यग्रोधस्य किमङ्ग तस्य वचसा श्लाघासु पर्याप्यते।
बन्धुर्वा स पुराकृतः किमथवा सत्कर्मणां संचयो मार्गे रूक्षविपत्रशाखिनि जनो यं प्राप्य विश्राम्यति॥ ३९६॥
किं जातोऽसि चतुष्पथे यदि घनच्छायोऽसि किं छायया संपन्नः फलितोऽसि किं यदि फलैः पूर्णोऽसि किं संनतः।
हे सद्वृक्ष ! सहस्व सम्प्रति सखे शाखाशिखाकर्षण— क्षोभामोटनभञ्जनानि जगतः स्वैरेव दुश्चेष्टितैः॥ ३९७॥
द्रव्यगुणाक्रियादीनां सहाभिधानं सहोक्तिः।
सा द्विधा— सादृश्यवती, असादृश्यवती च तयोः
आद्या (सादृश्यवती) यथा—(सेब. २.१४)
धीरं व जलसमूहं तिमिणिवहमिव सपक्खपव्वअलोअं।