(वल्लभे लघु व्यपक्रामत्यागच्छति पुनर्बहु बलिः क्रिये तामरसानि तव रोषस्य स्थिरस्य।
येन निरर्गलं जल्पति किमपि न यावज्जन— स्तावद्धिमेन विशीर्णा झटिति प्लुष्टतनुः॥)
१. अत्र राघवः—'मातृकासु भूयसा अपपाठः।' इति। साधु। मूलं तु किमाधृतमिति ज्ञेयम्।
देहो व्व पडइ दिअहो कण्ठच्छेओ व्व लोहिओ होइ रई।
गलइ रुहिरं व्व संझा घोलइ केसकसणं सिरम्मिअ तिमिरं॥ ३९२॥
(देह इव पतति दिवसः कण्ठच्छेद इव लोहितो भवति रविः।
गलति रुधिरमिव सन्ध्या घूर्णते केशकृष्णं शिर इव तिमिरम्॥)
पल्लविअं विअ करपल्लवेहिं॥ ३९३॥