उपमानोपमेययोः अत्यन्तसादृश्यात् सन्देहः संशयः। यथा—(स.क. ४.७५)
वाली भंभुरभोली उल्लसिअ णिअंसिणी गहणं सुणिअ विनिक्कन्ता णिद्दाए भेम्भली।
राहु वि तीअ मुहु जोहई पुणु जोहई गअणु भुल्लल्लेओ ण हु आणई दोण्हवि चन्दुकं वणु॥ ३८८॥
(बाला अतीव मुग्धा स्खलितनिवसना ग्रहणं श्रुत्वा विनिष्क्रान्ता निद्रया विह्वला।
राहुरपि तस्या मुखं पश्यति पुनः पश्यति गगनं भ्रान्तिमान् न खलु जानाति द्वयोश्चन्द्रः कः॥)
मुहे मअखलिउल्लावे ण्हाणोल्लए चिउरे वेणीअंसणसारे समोत्तिअहारे उरे।
कालान्तरे तरलाच्छिहु मअणु/ण समुल्लसइ माहउ पुणु त्थणगुडरे ण मुणइ कहिं वसइ॥ ३८९॥
(मुखे मदस्खलितोल्लापे स्नानोत्प्लुते चिकुरे वेणीनिवसनसारे समौक्तिकहारे उरसि।
कालान्तरे तरलाक्ष्णोर्मदनः समुल्लसति माघे पुनः स्तनगृहे न ज्ञायते कुत्र वसति॥)