उपमानोपमेययोरत्यन्तप्रसिद्धेरुपमानेनैव संक्षेपतोऽभिधानं समासोक्तिः।
सा द्विधा — अभिधीयमानसादृश्या, प्रतीयमानसादृश्या च। तयोः—
नालस्य प्रसरो जलेष्वपि कृतावासस्य कोशे रुचि— र्दण्डे कर्कशता मुखे च मृदुता मित्रे महान् प्रश्रयः।
आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषागमे/करे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः॥ ३९४॥
इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमलता श्यामेव हेमप्रभा।
पारुष्यं कलया च कोकिलवधूकण्टेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव॥ ३९५॥