भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1441 to 1450 of 1676 verses
धर्मविरुद्धस्य गुणीभावो यथा—(काव्याद. ४.६३)

पञ्चानां पाण्डुपुत्राणां पत्‍नी पाञ्चालकन्यका।

सतीनामग्रणीश्चासीद्दैवो हि विधिरीदृशः॥ ३९४॥

अर्थविरुद्धस्य गुणीभावो यथा—

नीतिरापदि यद्गम्यः परस्तन्मानिमो ह्रिये।

विधुर्विधुन्तुदस्येव पूर्णस्तस्योत्सवाय सः॥ ३९५॥ (माघ. २.६१)

कामविरुद्धस्य गुणीभावो यथा—

दोलातिप्रेरणत्रस्तवधूजनमुखोद्‍गतम्।

कामिनां लयवैषम्याद् गेयं रागमवर्धयत्॥ ३९३॥ (काव्याद. ४.६०)

एवमन्येऽपि द्रष्टव्याः। तद्यथा शिरश्शेखरः, कर्णावतंसः, श्रवणकुण्डलं, पुष्पमाला, धनुर्ज्या, टङ्कारध्वनिः, करिकलभ इत्यादिना पुष्टार्थत्वमर्थविशेषप्रतीतेः। तथा हि—शिरश्शेखरादीनां प्रभृतियोगः(?), पुष्पमालायां वैशा x x x दिप्राशस्त्यं, धनुर्ज्यायामारूढिः, करिकलभे करिप्रमाणता प्रतीयते। भुवनशिरश्शेखरः, पृथ्वीकर्णावतंसः, सरस्वतीश्रवणकुण्डलं, रत्‍नमाला, धनुर्ज्या, टङ्कारध्वनिः, कुचकुम्भः, करिकलभकः इत्यादिषूपचारः।

Showing 1441 to 1450 of 1676 verses