यत्रार्थैरक्षरैः श्लिष्टैर्विचित्रार्थोपवर्णनम्।
तमत्राक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम्॥ ३२५॥
यथा अभिज्ञानशाकुन्तले सप्तमेऽङ्के,
(प्रविश्य मृन्मयूरहस्ता तापसी)— सव्वदमण! सउंदलावण्णं पेक्ख। (सर्वदमन, शकुन्तलावण्यं प्रेक्षस्व।)
बालः—(सदृष्टिक्षेपम्), कहिं सा अज्जू। (कुत्र सा अम्बा?)
(उभे प्रहसिते) (उभे) णामसारिच्छेण छळिदो माउवच्छलो।
(नामसादृश्येन छलितो मातृवत्सलः।)
(द्वितीया) वच्छ इमस्स मित्तिआमोरअस्स रम्मत्तणं पेक्ख त्ति भणिसो। (वत्स! अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि।)