मनोरथश्च लेशश्च संक्षोभो गुणकीर्तनम्॥
आख्यानमभिमानश्च याञ्चा प्रोत्साहनं स्पृहा॥ ३१९॥
पश्चात्तापोऽनुवृत्तिश्च युक्तिर्निर्भासनं क्षमा।
गुणानुवाद आक्रन्दः कपटं परिवादनम्॥ ३२०॥
उपपत्तिश्च कार्यं च प्रतिषेधो मृषोद्यमः।
छलोक्तिः काकुरुन्मादः/थः परिहासो विकत्थनम्॥ ३२१॥
यदृच्छायोगवैषम्यप्रतिज्ञानप्रवृत्तयः।
आशीरनुक्तसिद्धिश्च प्रियं वचनमेव च॥१
लक्षणानि चतुष्षष्टिं काव्येष्वेतानि निर्दिशेत्॥ ३२२॥