भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1431 to 1440 of 2002 verses
(१. भूषणम्)

अलङ्कारैर्गुणश्चैव बहुभिर्यदलङ्कृतम्।

भूषणैरिव विन्यस्तैस्तद् भूषणमिति स्मृतम्॥ ३२३॥

(नाशा. १६.५)

यथा रत्‍नावल्यां प्रथमेऽङ्के यौगन्धरायणः—

विश्रान्तविग्रहकथो रतिमान् जनस्य चित्ते वसन् प्रियवसन्तक एष साक्षात्।

पर्युत्सुको निजमहोत्सवदर्शनाय वत्सेश्वरः कुसुमचाप इवाभ्युपैति॥ ३२४॥

(रत्‍ना. १.८)

अत्र श्लेषोपमाप्रत्यक्षादिभिरलङ्कारैः श्लेषप्रसादसौकुमार्यादिभिश्च गुणैरुपेतता द्रष्टव्या। एवं वक्ष्यमाणेष्वपि गुणालङ्कारा यथासम्भवमूहनीयाः, कारैश्च नियमेनारभ्यन्ते; सन्ध्यङ्गेषु तु गुणालङ्कारयोगो नापेक्ष्यत इति।

१. 'आशीरुक्‍तिश्‍च सिद्धिश्‍च' इति राघवः। सिद्धिरिति पुनरुक्‍तम् १२.३१७कारिकायां पठितचरत्वात्, अनुक्‍तसिद्धेः त्यागाच्च रा.पाठोऽमान्यः। १२.४५७

Showing 1431 to 1440 of 2002 verses