लक्षणानि चतुष्षष्टिरिति यत् प्रागुदीरितम्।
नाटकादेस्स्फुटं लक्ष्म तदिदानीं विविच्यते॥ ३१५॥
भूषणाक्षरसङ्घातौ शोभोदाहरणे तथा।
हेतुसंशयदृष्टान्ताः प्राप्तिराशय एव च॥ ३१६॥
निदर्शनं निरुक्तं च सिद्धिश्चापि विशेषणम्।
गुणातिपातोऽतिशयस्तुल्यतर्कः पदोच्ययः॥ ३१७॥
दिष्टं चैवोपदिष्टं च विचारोऽथ विपर्ययः।
भ्रंशश्चैवानुनीतिश्च माला दाक्षिण्यगर्हणे॥ ३१८॥
अर्थापत्तिः प्रसिद्धिश्च पृच्छा सारूप्यमेव च।