देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि स्पृहाम्॥ ३१०॥
कृष्णः—तत्कथय महाराज, किमस्मत्तः प्रियमिच्छसि ?
युधिष्ठिरः—किमतः परमपि प्रियमस्ति ?
क्रोधान्धैः सकलं हतं रिपुकुलं पञ्चाक्षताः पाण्डवाः पाञ्चाल्या मम दुर्नये पतितया तीर्णो निकारार्णवः।
त्वं देवः पुरुषोत्तमः सुकृतिनं मामादृतो भाषसे (वेसं. ६.४५) किं नामान्यदतः परं भगवतो याचे प्रसन्नादहम्॥ ३११॥ इति।
नृपदेवादिशाक्ति(शस्ति)श्च प्रशस्तिरभिधीयते॥ ३१२॥